পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৭৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।
মনহলি-লিপি।

यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं॥
भूमिं यः प्रतिगृह्नाति यश्च भूमिं प्रयच्छति।
उभौ तौ पुण्य-
५१ कर्म्माणौ नियतं स्वर्ग्गगामिनौ॥
गामेकां स्वर्ण्णमेकञ्च भूमेरप्यर्द्ध-मङ्गुलं
हरन् नरक-मायाति। यावदाहूति(त)-संप्लवं॥
५२ षष्ठीं वर्षसहस्राणि स्वर्ग्गे तिष्ठति भूमिदः।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत्॥
स्वदत्तां प-
५३ रदत्तां वा यो हरेत वसुन्धरां।
स विष्ठायां कृमि र्भूत्वा पितृभिः सह पच्यते॥
आस्फोटयन्ति पितरो वल्गयन्ति पिताम-
५४ हाः।
भूमिदोऽस्मत्-कुले जातः स न स्त्राता भविष्यति॥
सर्व्वानेतान् भाविनः पार्थिवेन्द्रान्
भूयोभूय प्रार्थयत्ये-
५५ ष रामः
सामान्योयं धर्म्म-सेतु र्नराणां
काले काले पालनीयः क्रमेण॥
इति कमलदलाम्बु-विन्दुलोलां
श्रिय मनु-
५६ चिन्त्य मनुस्य-जीवितं च।
सकल मिद मुदाहृतञ्च बुद्ध्वा
नहि पुरुषैः पर-कीर्त्तयो विलोप्याः॥
कृत सकल-
५७ नीतिज्ञो धैर्य-स्थैर्य-महोदधिः।
सन्धिविग्रहिकः श्रीमान् भीमदेवोऽत्र दूतकः॥

১৫৫