পাতা:সংস্কৃত ব্যাকরণের উপক্রমণিকা.djvu/১১৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

[ ৯৯ ]

स आत्मनोमृत्युमाह्वयति। यो विपदि सद्दायोभवति सएव यथार्थबन्धुः। यी दुर्ज्जनेन सइ मैत्रो करोति स पदे पदे विपदमाप्नोति। यस्य कुलं शीलञ्च न ज्ञायते न तस्मिन् सइसा विश्वसनीयम्। यत्नेन विना किमपि न सिद्धति। तस्मात् सर्व्वेषु कार्य्येषु यत्नः करणीयः।


षष्ठ: पाठः।

 सदा सत्यं ब्रूयात्। सर्व्वे सत्यवादिन माद्रियन्ते तस्य वचसि विश्वासं कुर्व्वन्ति च। योहि मिथ्यावादी भवति न कोऽपि तस्मिन् विश्वसिति।

 सदा प्रियं ब्रूयात्। प्रियवादी सर्वस्य प्रियीभवति।

 विद्या हि परमं धनम्। यस्य विद्याधनमस्ति स सदा सुखेन कालं नयति। श्रमेण यत्नेन च विना विद्या न भवति।