পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/২৪

উইকিসংকলন থেকে
এই পাতাটিকে বৈধকরণ করা হয়েছে। পাতাটিতে কোনো প্রকার ভুল পেলে তা ঠিক করুন বা জানান।

লেখমালা।

४३ णेन जोलकः। पश्विमेन वेसानिकाख्या खाटिका। उत्तरेणोड्रग्राम-मण्डलसीमा-व्यवस्थितो गोमार्गः। एषु च-
४४ तुरुषु (चतुर्षु) ग्रामेषु समुपगतान् सर्व्वानेव राजराजनक-राजपुत्र-राजामात्य-सेनापति-विषयपति-भोगपति-षष्ठाधि-
४५ कृत-दण्डशक्ति-दण्डपाशिक-चौरोद्धरणिक-दौस्साधसाधनिक-दूत-खोल-समागमिकाभित्वरमाण-हस्त्यश्व-गोमहिषाजा-
४६ विकाध्यक्ष-नाकाध्यक्ष٭১ बलाध्यक्ष-तरिक-शौल्किक-गौल्मिक-तदायुक्तक-विनियुक्तकादि-राजपादोपजीविनोऽन्यांश्चाकीर्त्ति-
४७ तान् चाटभटजातीयान् यथाकालाध्यासिनो ज्येष्ठकायस्थ-महामहत्तर-महत्तर-दाशग्रामिकादि-विषयव्यवहारिणः
४८ सकरणान् प्रतिवासिनः क्षेत्रकरांश्च ब्राह्मण-माननापूर्व्वकं यथार्हं मानयति बोधयति समाज्ञापयति च। मतमस्तु
४९ भवतां महासामन्ताधिपति-श्रीनारायणवर्म्मणा दूतक-युवराज-श्रीत्रिभुवनपालमुखेन वय मेवं विज्ञापिताः यथाऽस्मा-
५० भि र्म्मातापित्रो रात्मनश्च पुण्याभिवृद्धये शुभस्थल्यान्देवकुलं कारित न्तत्र प्रतिष्ठापित-भगवन्नन्न-नारायण-भट्टारकाय तत्प्र-
५१ तिपालक लाटद्विज-देवार्च्चकादि-पादमूल-समेताय पूजोपस्थानादि-कर्म्मणे चतुरो ग्रामान् अत्रत्य-हट्टिका-तलपाटक-
५२ समेतान् ददातु देव इति। ततोऽस्माभि स्तदीय विज्ञप्त्या एते उपरिलिखितका श्चत्वारो ग्रामा स्तलपाटक-हट्टिकासमेताः स्व-
५३ सीमापर्य्यन्ताः सोद्देशाः सदशापचाराः अकिञ्चित्प्रग्राह्याः परिहृत-सर्व्वपीड़ाः भूमिच्छिद्रन्यायेन चन्द्रार्कक्षिति-समकालं
५४ तथैव प्रतिष्ठापिताः। यतो भवद्भि स्सर्व्वै रेव भूमे र्द्दानफल-गौरवादपहरणे च महानरक पातादि भयाद्दानमिद मनुमो-
५५ द्य परिपालनीयम्। प्रतिवासिभिः क्षेत्रकरै श्वाज्ञाश्रवणविधेयै-

^٭১  অধ্যাপক কিল্‌হর্ণ “नौकाध्यक्ष” পাঠ-যোজনা করিয়া গিয়াছেন; তদপেক্ষা “नाकाध्यक्ष” পাঠ যোজনা করিলেই ভাল হয়। কারণ, কিঞ্চিৎ পরেই আবার “तरिक” রহিয়াছে।

১৬